ब्रह्मसूत्र

अविभागेन दृष्टत्वात्।।4.4.4।।

अविभागाधिकरणम्।।4.4.4।।

परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते यः स किं परस्मादात्मनः पृथगेव भवति उत
अविभागेनैवावतिष्ठत इति वीक्षायाम् स तत्र पर्येति इत्यधिकरणाधिकर्तव्यनिर्देशात् ज्योतिरुपसंपद्य इति च कर्तृकर्मनिर्देशात् भेदेनैवावस्थानमिति यस्य मतिः तं व्युत्पादयति अविभक्त एव परेण आत्मना मुक्तोऽवतिष्ठते कुतः दृष्टत्वात् तथा हि तत्त्वमसि अहं ब्रह्मास्मि यत्र नान्यत्पश्यति न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्पश्येत् इत्येवमादीनि वाक्यान्यविभागेनैव परमात्मानं दर्शयन्ति यथादर्शनमेव च फलं युक्तम् तत्क्रतुन्यायात् यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति। एवं मुनेर्विजानत आत्मा भवति गौतम इति च एवमादीनि मुक्तस्वरूपनिरूपणपराणि वाक्यान्यविभागमेव दर्शयन्ति नदीसमुद्रादिनिदर्शनानि च। भेदनिर्देशस्तु अभेदेऽप्युपचर्यते स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नि इति आत्मरतिरात्मक्रीडः इति च एवमादिदर्शनात्।।