योगसूत्र

सूत्र

तदेवार्थमात्रनिर्भास स्वरूपशून्यमिव समाधिः।।3.3।।

भाष्य

।।3.3।। इदमत्रबोध्यम् ध्यातृध्येयध्यानकलनावत् ध्यानं तद्रहितं समाधिरिति ध्यानसमाध्योर्विभागः। अस्य च समाधिरूपस्य ङ्गस्याङ्गिसंप्रज्ञातयोगादयं भेदो यदत्र चिन्तारूपतया निःशेषतो ध्येयस्य स्वरूपं न भासते। अङ्गिनि तु संप्रज्ञाते ज्ञातव्य साक्षात्कारोदये समाध्यविषया अपि विषया भासन्त इति। तथा च साक्षात्कारयुक्तैकाग्र्यकाले संप्रज्ञातयोगः। अन्यदा ते समाधिमात्रमिति विभागः समाधिः ध्यानमेव ध्येयाकारनिर्भासं प्रत्ययात्मकेन स्वरूपेण शून्यमिव यदा भवति ध्येयस्वभावावेशात्तदा समाधिरित्युच्यते।

भोजवृत्ति

।।3.3।। तदेवोक्तलक्षणं ध्यानं यत्रार्थमात्रनिर्भासमर्थाकारसमावेशादुद्भूतार्थरूपंन्यग्भूतज्ञानस्वरूपत्वेन स्वरूपशून्यतामिवाऽऽपद्यते स समाधिरित्युच्यते। सम्यगाधीयत एकाग्री क्रियते विक्षेपान्परिहृत्य मनो यत्र स समाधिः।

उक्तलक्षणस्य योगाङ्गत्रयस्य व्यवहाराय स्वशास्त्रे तान्त्रिकीं संज्ञां कर्तुमाह