ब्रह्मसूत्र

विकारशब्दान्नेति चेन्न प्राचुर्यात्।।1.1.13।।

।।1.1.13।।

अत्राह नानन्दमयः पर आत्मा भवितुमर्हति कस्मात् विकारशब्दात् प्रकृतिवचनादयमन्यः शब्दो विकारवचनः समधिगतः आनन्दमयः इति मयटो विकारार्थत्वात् तस्मादन्नमयादिशब्दवद्विकारविषय एवायमानन्दमयशब्द इति चेत् न प्राचुर्यार्थेऽपि मयटः स्मरणात्। तत्प्रकृतवचने मयट् इति हि प्रचुरतायामपि मयट् स्मर्यते यथा अन्नमयो यज्ञः इत्यन्नप्रचुर उच्यते एवमानन्दप्रचुरं ब्रह्मानन्दमयमुच्यते। आनन्दप्रचुरत्वं च ब्रह्मणो मनुष्यत्वादारभ्योत्तरस्मिन्नुत्तरस्मिन्स्थाने शतगुण आनन्द इत्युक्त्वा ब्रह्मानन्दस्य निरतिशयत्वावधारणात्। तस्मात्प्राचुर्यार्थे मयट्।।