ब्रह्मसूत्र

उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्।।1.1.27।।

।।1.1.27।।

यदप्येतदुक्तम् पूर्वत्र त्रिपादस्यामृतं दिवि इति सप्तम्या द्यौः आधारत्वेनोपदिष्टा इह पुनः अथ यदतः परो दिवः इति पञ्चम्या मर्यादात्वेन तस्मादुपदेशभेदान्न तस्येह प्रत्यभिज्ञानमस्तीति तत्परिहर्तव्यम्। अत्रोच्यते नायं दोषः उभयस्मिन्नप्यविरोधात्। उभयस्मिन्नपि सप्तम्यन्ते पञ्चम्यन्ते चोपदेशे न प्रत्यभिज्ञानं विरुध्यते। यथा लोके वृक्षाग्रेण संबद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च एवं दिव्येव सद्ब्रह्म दिवः परमित्युपदिश्यते। अपर आह यथा लोके वृक्षाग्रेणासंबद्धोऽपि श्येन उभयथोपदिश्यमानो दृश्यते वृक्षाग्रे श्येनो वृक्षाग्रात्परतः श्येन इति च एवं दिवः परमपि सद्ब्रह्म दिवीत्युपदिश्यते। तस्मादस्ति पूर्वनिर्दिष्टस्य ब्रह्मण इह प्रत्यभिज्ञानम्। अतः परमेव ब्रह्म ज्योतिःशब्दमिति सिद्धम्।।