ब्रह्मसूत्र

प्राणस्तथाऽनुगमात्।।1.1.28।।

प्रातर्दनाधिकरणम्।।1.1.28।।

अस्ति कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिका प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन च पौरुषेण च इत्यारभ्याम्नाता। तस्यां श्रूयते स होवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्स्व इति। तथोत्तरत्रापि अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति। तथा न वाचं विजिज्ञासीत वक्तारं विद्यात् इति। अन्ते च स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः इत्यादि। तत्र संशयः किमिह प्राणशब्देन वायुमात्रमभिधीयते उत देवतात्मा उत जीवः अथवा परं ब्रह्मेति। ननु अत एव प्राणः इत्यत्र वर्णितं प्राणशब्दस्य ब्रह्मपरत्वम् इहापि च ब्रह्मलिङ्गमस्ति आनन्दोऽजरोऽमृतः इत्यादि कथमिह पुनः संशयः संभवति अनेकलिङ्गदर्शनादिति ब्रूमः। न केवलमिह ब्रह्मलिङ्गमेवोपलभ्यते। सन्ति हीतरलिङ्गान्यपि मामेव विजानीहि इतीन्द्रस्य वचनं देवतात्मलिङ्गम्। इदं शरीरं परिगृह्योत्थापयति इति प्राणलिङ्गम्। न वाचं विजिज्ञासीत वक्तारं विद्यात् इत्यादि जीवलिङ्गम। अत उपपन्नः संशयः। तत्र प्रसिद्धेर्वायुः प्राण इति प्राप्ते

इदमुच्यते प्राणशब्दं ब्रह्म विज्ञेयम्। कुतः तथानुगमात्। तथाहि पौर्वापर्येण पर्यालोच्यमाने वाक्ये पदानां समन्वयो ब्रह्मप्रतिपादनपर उपलभ्यते। उपक्रमे तावत् वरं वृणीष्व इतीन्द्रेणोक्तः प्रतर्दनः परमं पुरुषार्थं वरमुपचिक्षेप त्वमेव मे वरं वृणीष्व यं त्वं मनुष्याय हिततमं मन्यसे इति। तस्मै हिततमत्वेनोपदिश्यमानः प्राणः कथं परमात्मा न स्यात्। न ह्यन्यत्र परमात्मविज्ञानाद्धिततमप्राप्तिरस्ति तमेव विदित्वाति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय इत्यादिश्रुतिभ्यः। तथा स यो मां वेद न ह वै तस्य केनचन कर्मणा लोको मीयते न स्तेयेन न भ्रूणहत्यया इत्यादि च ब्रह्मपरिग्रहे घटते। ब्रह्मविज्ञानेन हि सर्वकर्मक्षयः प्रसिद्धः क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे इत्याद्यासु श्रुतिषु। प्रज्ञात्मत्वं च ब्रह्मपक्ष एवोपपद्यते। न ह्यचेतनस्य वायोः प्रज्ञात्मत्वं संभवति। तथोपसंहारेऽपि आनन्दोऽजरोऽमृतः इत्यानन्दत्वादीनि च न ब्रह्मणोऽन्यत्र सम्यक् संभवन्ति। स न साधुना कर्मणा भूयान्भवति नो एवासाधुना कर्मणा कनीयानेष ह्येव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषते। एष उ एवासाधु कर्म कारयति तं
यमेभ्यो लोकेभ्योऽधो निनीषते इति एष लोकाधिपतिरेष लोकपाल एष लोकेशः इति च। सर्वमेतत्परस्मिन्ब्रह्मण्याश्रीयमाणेऽनुगन्तुं शक्यते न मुख्ये प्राणे। तस्मात्प्राणो ब्रह्म।।