ब्रह्मसूत्र

न वक्तुरात्मोपदेशादिति चेदध्यात्मसम्बन्धभूमा ह्यस्मिन्।।1.1.29।।

।।1.1.29।।

यदुक्तं प्राणो ब्रह्मेति तदाक्षिप्यते न परं ब्रह्म प्राणशब्दम् कस्मात् वक्तुरात्मोपदेशात्। वक्ता हीन्द्रो नाम कश्चिद्विग्रहवान्देवताविशेषः स्वमात्मानं प्रतर्दनायाचचक्षे मामेव विजानीहि इत्युपक्रम्य प्राणोऽस्मि प्रज्ञात्मा इत्यहंकारवादेन। स एव वक्तुरात्मत्वेनोपदिश्यमानः प्राणः कथं ब्रह्म स्यात् न हि ब्रह्मणो वक्तृत्वं संभवति अवागमनाः इत्यादिश्रुतिभ्यः। तथा विग्रहसंबन्धिभिरेव ब्रह्मण्यसंभवद्भिर्धर्मैरिन्द्र आत्मानं तुष्टाव त्रिशीर्षाणं त्वाष्ट्रमहनमरुन्मुखान्यतीञ्शालावृकेभ्यः प्रायच्छम् इत्येवमादिभिः। प्राणत्वं चेन्द्रस्य बलवत्त्वादुपपद्यते प्राणो वै बलम् इति हि विज्ञायते। बलस्य चेन्द्रो देवता प्रसिद्धा। या च काचिद्बलप्रकृतिः इन्द्रस्य कर्मैव तदिति हि वदन्ति। प्रज्ञात्मत्वमप्यप्रतिहतज्ञानत्वाद्देवतात्मनः संभवति। अप्रतिहतज्ञाना देवता इति हि वदन्ति। निश्चिते चैवं देवतात्मोपदेशे हिततमत्वादिवचनानि यथासंभवं तद्विषयाण्येव योजयितव्यानि। तस्माद्वक्तुरिन्द्रस्यात्मोपदेशात् न प्राणो ब्रह्मेत्याक्षिप्य प्रतिसमाधीयते अध्यात्मसंबन्धभूमा ह्यस्मिन् इति। अध्यात्मसंबन्धः प्रत्यगात्मसंबन्धः तस्य भूमा बाहुल्यम् अस्मिन्नध्याये उपलभ्यते। यावद्ध्यस्मिञ्शरीरे प्राणो वसति तावदायुः इति प्राणस्यैव प्रज्ञात्मनः प्रत्यग्भूतस्यायुष्प्रदानोपसंहारयोः स्वातन्त्र्यं दर्शयति न देवताविशेषस्य पराचीनस्य। तथास्तित्वे च प्राणानां निःश्रेयसमित्यध्यात्ममेवेन्द्रियाश्रयं प्राणं दर्शयति। तथा प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति इति। न वाचं विजिज्ञासीत वक्तारं विद्यात् इति चोपक्रम्य तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष प्राण एव प्रज्ञात्मानन्दोऽजरोऽमृतः इति विषयेन्द्रियव्यवहारारनाभिभूतं प्रत्यगात्मानमेवोपसंहरति। स म आत्मेति विद्यात् इति चोपसंहारः प्रत्यगात्मपरिग्रहे साधुः न पराचीनपरिग्रहे। अयमात्मा ब्रह्म सर्वानुभूः इति च श्रुत्यन्तरम्। तस्मादध्यात्मसंबन्धबाहुल्याद्ब्रह्मोपदेश एवायम् न देवतात्मोपदेशः।।

कथं तर्हि वक्तुरात्मोपदेशः