ब्रह्मसूत्र

।। द्वितीयोऽध्यायः ।।
।। तृतीयः पादः ।।

न वियदश्रुतेः ।। 2.3.1 ।।

वियदधिकरणम्।।2.3.1।।

किमस्याकाशस्योत्पत्तिरस्ति उत नास्तीति। तत्र तावत्प्रतिपद्यते न वियदश्रुतेरिति न खल्वाकाशमुत्पद्यते कस्मात् अश्रुतेः न ह्यस्योत्पत्तिप्रकरणे श्रवणमस्ति छान्दोग्ये हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् इति सच्छब्दवाच्यं ब्रह्म प्रकृत्य तदैक्षत तत्तेजोऽसृजत इति च पञ्चानां महाभूतानां मध्यमं तेज आदि कृत्वा त्रयाणां तेजोबन्नानामुत्पत्तिः श्राव्यते श्रुतिश्च नः प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ न च अत्र श्रुतिरस्त्याकाशस्योत्पत्तिप्रतिपादिनी तस्मान्नाकाशस्योत्पत्तिरिति।।