ब्रह्मसूत्र

गोण्यसम्भवात्।।2.3.3।।

।।2.3.3।।

नास्ति वियत उत्पत्तिः अश्रुतेरेव। या त्वितरा वियदुत्पत्तिवादिनी श्रुतिरुदाहृता सा गौणी भवितुमर्हति कस्मात् असंभवात्। न ह्याकाशस्योत्पत्तिः संभावयितुं शक्या श्रीमत्कणभुगभिप्रायानुसारिपु जीवत्सु ते हि कारणसामग्र्यसंभवादाकाशस्योत्पत्तिं वारयन्ति समवाय्यसमवायिनिमित्तकारणेभ्यो हि किल सर्वमुत्पद्यमानं समुत्पद्यते द्रव्यस्य चैकजातीयकमनेकं च द्रव्यं समवायिकारणं भवति न चाकाशस्यैकजातीयकमनेकं च द्रव्यमारम्भकमस्ति यस्मिन्समवायिकारणे सति असमवायिकारणे च तत्संयोगे आकाश उत्पद्येत तदभावात्तु तदनुग्रहप्रवृत्तं निमित्तकारणं दूरापेतमेव आकाशस्य भवति। उत्पत्तिमतां च तेजःप्रभृतीनां
पूर्वोत्तरकालयोर्विशेषः संभाव्यते प्रागुत्पत्तेः प्रकाशादिकार्यं न बभूव पश्चाच्च भवतीति आकाशस्य पुनर्न पूर्वोत्तरकालयोर्विशेषः संभावयितुं शक्यते किं हि प्रागुत्पत्तेरनवकाशमसुषिरमच्छिद्रं बभूवेति शक्यतेऽध्यवसातुम् पृथिव्यादिवैधर्म्याच्च विभुत्वादिलक्षणात् आकाशस्य अजत्वसिद्धिः। तस्माद्यथा लोके आकाशं कुरु आकाशो जातः इत्येवंजातीयको गौणः प्रयोगो भवति यथा चघटाकाशः करकाकाशः गृहाकाशः इत्येकस्याप्याकाशस्य एवंजातीयको भेदव्यपदेशो गौणो भवति वेदेऽपि आरण्यानाकाशेष्वालभेरन् इति एवमुत्पत्तिश्रुतिरपि गौणी द्रष्टव्या।।