ब्रह्मसूत्र

त्र्यात्मकत्वात्तु भूयस्त्वात्।।3.1.2।।

।।3.1.2।।

तुशब्देन चोदितामाशङ्कामुच्छिनत्ति। त्र्यात्मिका हि आपः त्रिवृत्करणश्रुतेः तास्वारम्भिकास्वभ्युपगतास्वितरदपि भूतद्वयमवश्यमभ्युपगन्तव्यं भवति। त्र्यात्मकश्च देहः त्रयाणामपि तेजोबन्नानां तस्मिन्कार्योपलब्धेः। पुनश्च त्र्यात्मकः त्रिधातुत्वात् त्रिभिर्वातपित्तश्लेष्मभिः न स भूतान्तराणि प्रत्याख्याय केवलाभिरद्भिरारब्धुं शक्यते। तस्माद्भूयस्त्वापेक्षोऽयम् आपः पुरुषवचसः इति प्रश्नप्रतिवचनयोरप्शब्दः न कैवल्यापेक्षः सर्वदेहेषु हि रसलोहितादिद्रवभूयस्त्वं दृश्यते। ननु पार्थिवो धातुर्भूयिष्ठो देहेषूपलभ्यते नैष दोषः इतरापेक्षया अपां बाहुल्यं भविष्यति दृश्यते च शुक्रशोणितलक्षणेऽपि
देहबीजे द्रवबाहुल्यम्। कर्म च निमित्तकारणं देहान्तरारम्भे कर्माणि च अग्निहोत्रादीनि सोमाज्यपयःप्रभृतिद्रवद्रव्यव्यपाश्रयाणि कर्मसमवायिन्यश्च आपः श्रद्धाशब्दोदिताः सह कर्मभिर्द्युलोकाख्येऽग्नौ हूयन्त इति वक्ष्यति तस्मादप्यपां बाहुल्यप्रसिद्धिः। बाहुल्याच्च अप्शब्देन सर्वेषामेव देहबीजानां भूतसूक्ष्माणामुपादानमिति निरवद्यम्।।