ब्रह्मसूत्र

।। तृतीयोऽध्यायः ।।
।। प्रथमः पादः ।।

तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ।। 3.1.1 ।।

तदन्तरप्रतिपत्त्यधिकरणम्।।3.1.1।।

तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्त इति। तदन्तरप्रतिपत्तौ देहान्तरप्रतिपत्तौ देहबीजैर्भूतसूक्ष्मैः संपरिष्वक्तः रंहति गच्छति इत्यवगन्तव्यम् कुतः प्रश्ननिरूपणाभ्याम् तथा हि प्रश्नः वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति निरूपणं च प्रतिवचनम् द्युपर्जन्यपृथिवीपुरुषयोषित्सु पञ्चस्वग्निषु श्रद्धासोमवृष्ट्यन्नरेतोरूपाः पञ्च आहुतीर्दर्शयित्वा इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति तस्मादद्भिः परिवेष्टितो जीवो रंहति व्रजतीति गम्यते। नन्वन्या श्रुतिः जलूकावत्पूर्वदेहं न मुञ्चति यावन्न देहान्तरमाक्रमतीति दर्शयति तद्यथा तृणजलायुका इति तत्राप्यप्परिवेष्टितस्यैव जीवस्य कर्मोपस्थापितप्रतिपत्तव्यदेहविषयभावनादीर्घीभावमात्रं जलूकयोपमीयत इत्यविरोधः। एवं श्रुत्युक्ते देहान्तरप्रतिपत्तिप्रकारे सति याः पुरुषमतिप्रभवाः कल्पनाः व्यापिनां करणानामात्मनश्च देहान्तरप्रतिपत्तौ कर्मवशाद्वृत्तिलाभस्तत्र भवति केवलस्यैवात्मनो वृत्तिलाभस्तत्र भवति इन्द्रियाणि तु देहवदभिनवान्येव तत्र तत्र भोगस्थाने उत्पद्यन्ते मन एव वा केवलं भोगस्थानमभिप्रतिष्ठते जीव एव वा उत्प्लुत्य देहाद्देहान्तरं प्रतिपद्यते शुक इव वृक्षाद्वृक्षान्तरम् इत्येवमाद्याः ताः सर्वा एव अनादर्तव्याः श्रुतिविरोधात्।।

ननु उदाहृताभ्यां प्रश्नप्रतिवचनाभ्यां केवलाभिरद्भिः संपरिष्वक्तो रंहतीति प्राप्नोति अप्शब्दश्रवणसामर्थ्यात् तत्र कथं सामान्येन प्रतिज्ञायते सर्वैरेव भूतसूक्ष्मैः संपरिष्वक्तो रंहतीति अत उत्तरं पठति