ब्रह्मसूत्र

अन्याधिष्ठितेषु पूर्ववदभिलापात्।।3.1.24।।

अन्याधिष्ठिताधिकरणम्।।3.1.24।।

तस्मिन्नेवावरोहे प्रवर्षणानन्तरं पठ्यते त इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते इति। तत्र संशयः किमस्मिन्नवधौ स्थावरजात्यापन्नाः स्थावरसुखदुःखभाजोऽनुशयिनो भवन्ति आहोस्वित्क्षेत्रज्ञान्तराधिष्ठितेषु स्थावरशरीरेषु संश्लेषमात्रं गच्छन्तीति। किं तावत्प्राप्तम् स्थावरजात्यापन्नास्तत्सुखदुःखभाजोऽनुशयिनो भवन्तीति कुत एतत् जनेर्मुख्यार्थत्वोपपत्तेः स्थावरभावस्य च श्रुतिस्मृत्योरुपभोगस्थानत्वप्रसिद्धेः पशुहिंसादियोगाच्च इष्टादेः कर्मजातस्यानिष्टफलत्वोपपत्तेः तस्मान्मुख्यमेवेदमनुशयिनां व्रीह्यादिजन्म श्वादिजन्मवत् यथाश्वयोनिं वा सूकरयोनिं वा चाण्डालयोनिं वा इति मुख्यमेवानुशयिनां श्वादिजन्म तत्सुखदुःखान्वितं भवति एवं व्रीह्यादिजन्मापीति। एवं प्राप्ते

ब्रूमः अन्यैर्जीवैरधिष्ठितेषु व्रीह्यादिषु संसर्गमात्रमनुशयिनः प्रतिपद्यन्ते न तत्सुखदुःखभाजो भवन्ति पूर्ववत् यथा वायुधूमादिभावोऽनुशयिनां तत्संश्लेषमात्रम् एवं व्रीह्यादिभावोऽपि जातिस्थावरैः संश्लेषमात्रम्। कुत एतत् तद्वदेवेहाप्यभिलापात् कोऽभिलापस्य तद्वद्भावः कर्मव्यापारमन्तरेण संकीर्तनम् यथा आकाशादिषु प्रवर्षणान्तेषु न किंचित्कर्मव्यापारं परामृशति एवं व्रीह्यादिजन्मन्यपि। तस्मान्नास्त्यत्र सुखदुःखभाक्त्वमनुशयिनाम्। यत्र तु सुखदुःखभाक्त्वमभिप्रैति परामृशति तत्र कर्मव्यापारम् रमणीयचरणाः ||. कपूयचरणाः इति। अपि च मुख्येऽनुशयिनां व्रीह्यादिजन्मनि व्रीह्यादिषु लूयमानेषु कण्ड्यमानेषु पच्यमानेषु भक्ष्यमाणेषु च तदभिमानिनोऽनुशयिनः प्रवसेयुः यो हि जीवो यच्छरीरमभिमन्यते स तस्मिन्पीड्यमाने प्रवसति इति प्रसिद्धम् तत्र व्रीह्यादिभावाद्रेतःसिग्भावोऽनुशयिनां नाभिलप्येत अतः संसर्गमात्रमनुशयिनामन्याधिष्ठितेषु व्रीह्यादिषु भवति। एतेन जनेर्मुख्यार्थत्वं प्रतिब्रूयात् उपभोगस्थानत्वं च स्थावरभावस्य न च वयमुपभोगस्थानत्वं स्थावरभावस्यावजानीमहे भवत्वन्येषां जन्तूनामपुण्यसामर्थ्येन स्थावरभावमुपगतानाम् एतत् उपभोगस्थानम् चन्द्रमसस्तु अवरोहन्तोऽनुशयिनो न स्थावरभावमुपभुञ्जत इत्याचक्ष्महे।।