ब्रह्मसूत्र

अशुद्धमिति चेन्न शब्दात्।।3.1.25।।

।।3.1.25।।

यत्पुनरुक्तम् पशुहिंसादियोगादशुद्धमाध्वरिकं कर्म तस्यानिष्टमपि फलमवकल्पत इत्यतो मुख्यमेवानुशयिनां व्रीह्यादिजन्म अस्तु तत्र गौणी कल्पना अनर्थिकेति तत्परिह्रियते न शास्त्रहेतुत्वाद्धर्माधर्मविज्ञानस्य अयं धर्मः अयमधर्म इति शास्त्रमेव विज्ञाने कारणम् अतीन्द्रियत्वात्तयोः अनियतदेशकालनिमित्तत्वाच्च यस्मिन्देशे काले निमित्ते च यो धर्मोऽनुष्ठीयते स एव देशकालनिमित्तान्तरेष्वधर्मो भवति तेन न शास्त्रादृते धर्माधर्मविषयं विज्ञानं कस्यचिदस्ति। शास्त्राच्च हिंसानुग्रहाद्यात्मको ज्योतिष्टोमो धर्म इत्यवधारितः स कथमशुद्ध इति शक्यते वक्तुम्। ननुन हिंस्यात्सर्वा भूतानि इति शास्त्रमेव भूतविषयां हिंसाम् अधर्म इत्यवगमयति बाढम् उत्सर्गस्तु सः अपवादोऽयं चअग्नीषोमीयं पशुमालभेत इति उत्सर्गापवादयोश्च व्यवस्थितविषयत्वम् तस्माद्विशुद्धं कर्म वैदिकम् शिष्टैरनुष्ठीयमानत्वात् अनिन्द्यमानत्वाच्च तेन न तस्य प्रतिरूपं फलम् जातिस्थावरत्वम्। न च श्वादिजन्मवदपि व्रीह्यादिजन्म भवितुमर्हति तद्धि कपूयचरणानधिकृत्य उच्यते नैवमिह वैशेषिकः कश्चिदधिकारोऽस्ति। अतश्चन्द्रस्थलस्खलितानामनुशयिनां व्रीह्यादिसंश्लेषमात्रं तद्भाव इत्युपचर्यते।।