ब्रह्मसूत्र

योनेः शरीरम्।।3.1.27।।

।।3.1.27।।

अथ रेतःसिग्भावस्यानन्तरं योनौ निषिक्ते रेतसि योनेरधि शरीरम् अनुशयिनाम् अनुशयफलोपभोगाय जायत इत्याह शास्त्रम् तद्य इह रमणीयचरणाः इत्यादि तस्मादप्यवगम्यते नावरोहे ब्राह्यादिभावावसरे तच्छरीरमेव सुखदुःखान्वितं भवतीति। तस्मात् व्रीह्यादिसंश्लेषमात्रमनुशयिनां तज्जन्मेति सिद्धम्।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य प्रथमः पादः।।