ब्रह्मसूत्र

अंग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्।।3.1.4।।

।।3.1.4।।

स्यादेतत् नैव प्राणा देहान्तरप्रतिपत्तौ सह जीवेन गच्छन्ति अग्न्यादिगतिश्रुतेः तथा हि श्रुतिः मरणकाले वागादयः प्राणा अग्न्यादीन्देवान्गच्छन्तीति दर्शयति यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणः इत्यादिना इति चेत् न भाक्तत्वात् वागादीनामग्न्यादिगतिश्रुतिर्गौणी लोमसु केशेषु च अदर्शनात् ओषधीर्लोमानि वनस्पतीन्केशाः इति हि तत्राम्नायते न हि लोमानि केशाश्चोत्प्लुत्य ओषधीर्वनस्पतींश्च गच्छन्तीति संभवति न च जीवस्य प्राणोपाधिप्रत्याख्याने गमनमवकल्पते नापि प्राणैर्विना देहान्तरे उपभोग उपपद्यते विस्पष्टं च प्राणानां सह जीवेन गमनमन्यत्र श्रावितम् अतो वागाद्यधिष्ठात्रीणामग्न्यादिदेवतानां वागाद्युपकारिणीनां मरणकाले उपकारनिवृत्तिमात्रमपेक्ष्य वागादयोऽग्न्यादीन्गच्छन्तीत्युपचर्यते।।