ब्रह्मसूत्र

प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः।।3.1.5।।

।।3.1.5।।

स्यादेतत् कथं पुनःपञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इत्येतत् निर्धारयितुं पार्यते यावता नैव प्रथमेऽग्नावपां श्रवणमस्ति इह हि द्युलोकप्रभृतयः पञ्चाग्न्यः पञ्चानामाहुतीनामाधारत्वेनाधीताः तेषां च प्रमुखेअसौ वाव लोको गौतमाग्निः इत्युपन्यस्यतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति इति श्रद्धा होम्यद्रव्यत्वेन आवेदिता न तत्र आपो होम्यद्रव्यतया श्रुताः यदि नाम पर्जन्यादिषूत्तरेषु चतुर्ष्वग्निष्वपां होम्यद्रव्यता परिकल्प्येत परिकल्प्यतां नाम तेषु होतव्यतयोपात्तानां सोमादीनामब्बहुलत्वोपपत्तेः प्रथमे त्वग्नौ श्रुतां श्रद्धां परित्यज्य अश्रुता आपः परिकल्प्यन्त इति साहसमेतत् श्रद्धा च नाम प्रत्ययविशेषः प्रसिद्धिसामर्थ्यात् तस्मादयुक्तः पञ्चम्यामाहुतावपां पुरुषभाव इति चेत्

नैष दोषः हि यतः तत्रापि प्रथमेऽग्नौ ता एवापः श्रद्धाशब्देनाभिप्रेयन्ते कुतः उपपत्तेः एवं ह्यादिमध्यावसानसंगानात् अनाकुलमेतदेकवाक्यमुपपद्यते इतरथा पुनः पञ्चम्यामाहुतौ अपां पुरुषवचस्त्वप्रकारे पृष्टे प्रतिवचनावसरे प्रथमाहुतिस्थाने यद्यनपो होम्यद्रव्यं श्रद्धां नामावतारयेत् ततः अन्यथा प्रश्नोऽन्यथा प्रतिवचनमित्येकवाक्यता न स्यात्।इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति इति च उपसंहरन् एतदेव दर्शयति। श्रद्धाकार्यं च सोमवृष्ट्यादि स्थूलीभवदब्बहुलं लक्ष्यते सा च श्रद्धाया अप्त्वे युक्तिः। कारणानुरूपं हि कार्यं भवति। न च श्रद्धाख्यः प्रत्ययः मनसो जीवस्य वा धर्मः सन् धर्मिणो निष्कृष्य होमायोपादातुं शक्यते पश्वादिभ्य इव हृदयादीनि इति आप एव श्रद्धाशब्दा भवेयुः। श्रद्धाशब्दश्चाप्सूपपद्यते वैदिकप्रयोगदर्शनात् श्रद्धा वा आपः इति। तनुत्वं श्रद्धासारूप्यं गच्छन्ति आपो देहबीजभूता इत्यतः श्रद्धाशब्दाः स्युः यथा सिंहपराक्रमो नरः सिंहशब्दो भवति। श्रद्धापूर्वककर्मसमवायाच्च अप्सु श्रद्धाशब्द उपपद्यते मञ्चशब्द इव पुरुषेषु श्रद्धाहेतुत्वाच्च श्रद्धाशब्दोपपत्तिःआपो हास्मै श्रद्धां संनमन्ते पुण्याय कर्मणे इति श्रुतेः।।