ब्रह्मसूत्र

अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः।।3.1.6।।

।।3.1.6।।

अथापि स्यात् प्रश्नप्रतिवचनाभ्यां नाम आपः श्रद्धादिक्रमेण पञ्चम्यामाहुतौ पुरुषाकारं प्रतिपद्येरन् न तु तत्संपरिष्वक्ता जीवा रंहेयुः अश्रुतत्वात् न ह्यत्र अपामिव जीवानां श्रावयिता कश्चिच्छब्दोऽस्ति तस्मात्रंहति संपरिष्वक्तः इत्ययुक्तम् इति चेत् नैष दोषः कुतः इष्टादिकारिणां प्रतीतेः अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति इत्युपक्रम्य इष्टादिकारिणां धूमादिना पितृयाणेन पथा चन्द्रप्राप्तिं कथयतिआकाशाच्चन्द्रमसमेष सोमो राजा इति त एवेहापि प्रतीयन्तेतस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा संभवति इति श्रुतिसामान्यात्। तेषां च अग्निहोत्रदर्शपूर्णमासादिकर्मसाधनभूता दधिपयःप्रभृतयो द्रवद्रव्यभूयस्त्वात्प्रत्यक्षमेव आपः सन्ति ता आहवनीये हुताः सूक्ष्मा आहुत्योऽपूर्वरूपाः सत्यः तानिष्टादिकारिण आश्रयन्ति तेषां च शरीरं नैधनेन विधानेनान्त्येऽग्नावृत्विजो जुह्वति असौ स्वर्गाय लोकाय स्वाहा इति ततस्ताः श्रद्धापूर्वककर्मसमवायिन्य आहुतिमय्य आपोऽपूर्वरूपाः सत्यः तानिष्टादिकारिणो जीवान्परिवेष्ट्य अमुं लोकं फलदानाय नयन्तीति यत् तदत्र जुहोतिना अभिधीयते श्रद्धां जुह्वतीति। तथा च अग्निहोत्रे षट्प्रश्नीनिर्वचनरूपेण वाक्यशेषेणते वा एते आहुती हुते उत्क्रामतः इत्येवमादिना अग्निहोत्राहुत्योः फलारम्भाय लोकान्तरप्राप्तिर्दर्शिता। तस्मादाहुतीमयीभिरद्भिः संपरिष्वक्ता जीवा रंहन्ति स्वकर्मफलोपभोगायेति श्लिष्यते।।

कथं पुनरिदमिष्टादिकारिणां स्वकर्मफलोपभोगाय रंहणं प्रतिज्ञायते यावता तेषां धूमप्रतीकेन वर्त्मना चन्द्रमसमधिरूढानामन्नभावं दर्शयति एष सोमो राजा तद्देवानामन्नं तं तेवा भक्षयन्ति इतिते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेतांस्तत्र भक्षयन्ति इति च समानविषयं श्रुत्यन्तरम् न च व्याघ्रादिभिरिव देवैर्भक्ष्यमाणानामुपभोगः संभवतीति अत उत्तरं पठति