ब्रह्मसूत्र

श्रुतत्वाच्च।।3.2.39।।

।।3.2.39।।

न केवलम् उपपत्तेरेव ईश्वरं फलहेतुं कल्पयामः किं तर्हि श्रुतत्वादपि ईश्वरमेव फलहेतुं मन्यामहे तथा च श्रुतिर्भवति स वा एष महानज आत्मान्नादो वसुदानः इत्येवंजातीयका।।