ब्रह्मसूत्र

सूचकश्च हि श्रुतेराचक्षते च तद्विदः।।3.2.4।।

।।3.2.4।।

मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्धोऽस्तीति नेत्युच्यते सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः तथा हि श्रूयते यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति। समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने इति तथापुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति इत्येवमादिभिः स्वप्नैरचिरजीवित्वमावेद्यत इति श्रावयति आचक्षते च स्वप्नाध्यायविदः कुञ्जरारोहणादीनि स्वप्ने धन्यानि खरयानादीन्यधन्यानि इति मन्त्रदेवताद्रव्यविशेषनिमित्ताश्च केचित्स्वप्नाः सत्यार्थगन्धिनो भवन्तीति मन्यन्ते। तत्रापि भवतु नाम सूच्यमानस्य वस्तुनः सत्यत्वम् सूचकस्य तु स्त्रीदर्शनादेर्भवत्येव वैतथ्यम् बाध्यमानत्वादित्यभिप्रायः। तस्मादुपपन्नं स्वप्नस्य मायामात्रत्वम्।।

यदुक्तम् आह हि इति तदेवं सति भाक्तं व्याख्यातव्यम् यथालाङ्गलं गवादीनुद्वहति इति निमित्तमात्रत्वादेवमुच्यते न तु प्रत्यक्षमेव लाङ्गलं गवादीनुद्वहति एवं निमित्तमात्रत्वात् सुप्तो रथादीन्सृजतेस हि कर्ता इति च उच्यते न तु प्रत्यक्षमेव सुप्तो रथादीन्सृजति। निमित्तत्वं तु अस्य रथादिप्रतिभाननिमित्तमोदत्रासादिदर्शनात्तन्निमित्तभूतयोः सुकृतदुष्कृतयोः कर्तृत्वेनेति वक्तव्यम्। अपि च जागरिते विषयेन्द्रियसंयोगात् आदित्यादिज्योतिर्व्यतिकराच्च आत्मनः स्वयंज्योतिष्ट्वं दुर्विवेचनमिति तद्विवेचनाय स्वप्न उपन्यस्तः तत्र यदि रथादिसृष्टिवचनं श्रुत्या नीयेत ततः स्वयंज्योतिष्ट्वं न निर्णीतं स्यात् तस्माद्रथाद्यभाववचनं श्रुत्या रथादिसृष्टिवचनं तु भक्त्येति व्याख्येयम्। एतेन निर्माणश्रवणं व्याख्यातम्। यदप्युक्तम् प्राज्ञमेनं निर्मातारमामनन्ति इति तदप्यसत् श्रुत्यन्तरेस्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति इति जीवव्यापारश्रवणात् इहापिय एष सुप्तेषु जागर्ति इति प्रसिद्धानुवादाज्जीव एवायं कामानां निर्माता संकीर्त्यते तस्य तु वाक्यशेषेणतदेव शुक्रं तद्ब्रह्म इति जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्त्वमसि इत्यादिवत् इति न ब्रह्मप्रकरणं विरुध्यते। न चास्माभिः स्वप्नेऽपि प्राज्ञव्यापारः प्रतिषिध्यते तस्य सर्वेश्वरत्वात् सर्वास्वप्यवस्थास्वधिष्ठातृत्वोपपत्तेः पारमार्थिकस्तु नायं संध्याश्रयः सर्गः वियदादिसर्गवत् इत्येतावत्प्रतिपाद्यते न च वियदादिसर्गस्याप्यात्यन्तिकं सत्यत्वमस्ति प्रतिपादितं हितदनन्यत्वमारम्भणशब्दादिभ्यः इत्यत्र समस्तस्य प्रपञ्चस्य मायामात्रत्वम्। प्राक् तु ब्रह्मात्मत्वदर्शनात् वियदादिप्रपञ्चो व्यवस्थितरूपो भवति संध्याश्रयस्तु प्रपञ्चः प्रतिदिनं बाध्यते इत्यतो वैशेषिकमिदं संध्यस्य मायामात्रत्वमुदितम्।।