ब्रह्मसूत्र

मायामात्रं तु कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात्।।3.2.3।।

।।3.2.3।।

तुशब्दः पक्षं व्यावर्तयति। नैतदस्ति यदुक्तम् संध्ये सृष्टिः पारमार्थिकीति मायैव संध्ये सृष्टिः न परमार्थगन्धोऽप्यस्ति कुतः कात्स्न्र्येनानभिव्यक्तस्वरूपत्वात् न हि कात्स्न्र्येन परमार्थवस्तुधर्मेण अभिव्यक्तस्वरूपः स्वप्नः किं पुनरत्र कात्स्न्र्यमभिप्रेतम् देशकालनिमित्तसंपत्तिः अबाधश्च। न हि परमार्थवस्तुविषयाणि देशकालनिमित्तानि अबाधश्च स्वप्ने संभाव्यन्ते

न तावत्स्वप्ने रथादीनामुचितो देशः संभवति न हि संवृते देहदेशे रथादयोऽवकाशं लभेरन् स्यादेतत् बहिर्देहात् स्वप्नं द्रक्ष्यति देशान्तरितद्रव्यग्रहणात् दर्शयति च श्रुतिः बहिर्देहात्स्वप्नम् बहिष्कुलायादमृतश्चरित्वा। स ईयतेऽमृतो यत्र कामम् इति स्थितिगतिप्रत्ययभेदश्च न अनिष्क्रान्ते जन्तौ सामञ्जस्यमश्नुवीत इति। नेत्युच्यते न हि सुप्तस्य जन्तोः क्षणमात्रेण योजनशतान्तरितं देशं पर्येतुं विपर्येतुं च ततः सामर्थ्यं संभाव्यते क्वचिच्च प्रत्यागमनवर्जितं स्वप्नं श्रावयति कुरुष्वहमद्य शयानो निद्रयाभिप्लुतः स्वप्ने पञ्चालानभिगतश्च अस्मिन्प्रतिबुद्धश्च इति देहाच्चेदपेयात् पञ्चालेष्वेव प्रतिबुध्येत तानसावभिगत इति कुरुष्वेव तु प्रतिबुध्यते येन च अयं देहेन देशान्तरमश्नुवानो मन्यते तमन्ये पार्श्वस्थाः शयनदेश एव पश्यन्ति यथाभूतानि च अयं देशान्तराणि स्वप्ने पश्यति न तानि तथाभूतान्येव भवन्ति
परिधावंश्चेत्पश्येत् जाग्रद्वत् वस्तुभूतमर्थमाकलयेत्। दर्शयति च श्रुतिरन्तरेव देहे स्वप्नम् स यत्रैतत्स्वप्न्यया चरति इत्युपक्रम्यस्वे शरीरे यथाकामं परिवर्तते इति। अतश्च श्रुत्युपपत्तिविरोधाद्बहिष्कुलायश्रुतिः गौणी व्याख्यातव्या बहिरिव कुलायात् अमृतश्चरित्वेति यो हि वसन्नपि शरीरे न तेन प्रयोजनं करोति स बहिरिव शरीराद्भवति इति। स्थितिगतिप्रत्ययभेदोऽप्येवं सति विप्रलम्भ एवाभ्युपगन्तव्यः।।

कालविसंवादोऽपि च स्वप्ने भवति रजन्यां सुप्तो वासरं भारते वर्षे मन्यते तथा मुहूर्तमात्रवर्तिनि स्वप्ने कदाचित् बहून् वर्षपूगान् अतिवाहयति। निमित्तान्यपि च स्वप्ने न बुद्धये कर्मणे वा उचितानि विद्यन्ते करणोपसंहाराद्धि नास्य अश्वरथादिग्रहणाय चक्षुरादीनि सन्ति रथादिनिर्वर्तनेऽपि कुतोऽस्य निमेषमात्रेण सामर्थ्यं दारूणि वा। बाध्यन्ते चैते रथाश्वादयः स्वप्नदृष्टाः प्रबोधे स्वप्न एव च एते सुलभबाधा भवन्ति आद्यन्तयोर्व्यभिचारदर्शनात् रथोऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः संपद्यते मनुष्योऽयमिति निर्धारितः क्षणेन वृक्षः। स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् न तत्र रथा न रथयोगा न पन्थानो भवन्ति इत्यादि। तस्मान्मायामात्रं स्वप्नदर्शनम्।।