ब्रह्मसूत्र

स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च सववच्च तन्नियमः।।3.3.3।।

।।3.3.3।।

यदप्युक्तम् आथर्वणिकानां विद्यां प्रति शिरोव्रताद्यपेक्षणात् अन्येषां च तदनपेक्षणात् विद्याभेद इति तत्प्रत्युच्यते। स्वाध्यायस्य एष धर्मः न विद्यायाः कथमिदमवगम्यते यतः तथात्वेन स्वाध्यायधर्मत्वेन समाचारे वेदव्रतोपदेशपरे ग्रन्थे आथर्वणिकाःइदमपि वेदव्रतत्वेन व्याख्यातम् इति समामनन्तिनैतदचीर्णव्रतोऽधीते इति च अधिकृतविषयादेतच्छब्दात् अध्ययनशब्दाच्च स्वोपनिषदध्ययनधर्म एव एष इति निर्धार्यते। ननुतेषामेवैतां ब्रह्मविद्यां वदेत शिरोव्रतं विधिवद्यैस्तु चीर्णम् इति ब्रह्मविद्यासंयोगश्रवणात् एकैव सर्वत्र ब्रह्मविद्येति संकीर्येत एष धर्मः न तत्रापि एतामिति प्रकृतप्रत्यवमर्शात् प्रकृतत्वं च ब्रह्मविद्यायाः ग्रन्थविशेषापेक्षम् इति ग्रन्थविशेषसंयोग्येव एष धर्मः। सववच्च तन्नियम इति निदर्शननिर्देशः यथा च सवाः सप्त सौर्यादयः शतौदनपर्यन्ताः वेदान्तरोदितत्रेताग्न्यनभिसंबन्धात् आथर्वणोदितैकाग्न्यभिसंबन्धाच्च आथर्वणिकानामेव नियम्यन्ते तथैव अयमपि धर्मः स्वाध्यायविशेषसंबन्धात् तत्रैव नियम्यते। तस्मादप्यनवद्यं विद्यैकत्वम्।।