ब्रह्मसूत्र

विकल्पोऽविशिष्टफलत्वात्।।3.3.59।।

विकल्पाधिकरणम्।।3.3.59।।

स्थिते विद्याभेदे विचार्यते किमासामिच्छया समुच्चयो विकल्पो वा स्यात् अथवा विकल्प एव नियमेनेति। तत्र स्थितत्वात् तावद्विद्याभेदस्य न समुच्चयनियमे किंचित्कारणमस्ति। ननु भिन्नानामप्यग्निहोत्रदर्शपूर्णमासादीनां समुच्चयनियमो दृश्यते नैष दोषः नित्यताश्रुतिर्हि तत्र कारणम् नैवं विद्यानां काचिन्नित्यताश्रुतिरस्ति तस्मान्न समुच्चयनियमः। नापि विकल्पनियमः विद्यान्तराधिकृतस्य विद्यान्तराप्रतिषेधात्। पारिशेष्यात् याथाकाम्यमापद्यते। ननु अविशिष्टफलत्वादासां विकल्पो न्याय्यः तथा हि मनोमयः प्राणशरीरःकं ब्रह्म खं ब्रह्मसत्यकामः सत्यसंकल्पः इत्येवमाद्याः तुल्यवत् ईश्वरत्वप्राप्तिफला लक्ष्यन्ते नैष दोषः समानफलेष्वपि स्वर्गादिसाधनेषु कर्मसु याथाकाम्यदर्शनात्। तस्मात् याथाकाम्यप्राप्तौ उच्यते विकल्प एव आसां भवितुमर्हति न समुच्चयः कस्मात् अविशिष्टफलत्वात्। अविशिष्टं हि आसां फलमुपास्यविषयसाक्षात्करणम् एकेन च उपासनेन साक्षात्कृते उपास्ये विषये ईश्वरादौ द्वितीयमनर्थकम्। अपि च असंभव एव साक्षात्करणस्य समुच्चयपक्षे चित्तविक्षेपहेतुत्वात् साक्षात्करणसाध्यं च विद्याफलं दर्शयन्ति श्रुतयः यस्य स्यादद्धा न विचिकित्सास्ति इतिदेवो भूत्वा देवानप्येति इति च एवमाद्याः स्मृतयश्च सदा तद्भावभावितः इत्येवमाद्याः। तस्मात् अविशिष्टफलानां विद्यानामन्यतमामादाय तत्परः स्यात् यावदुपास्यविषयसाक्षात्करणेन तत्फलं प्राप्तमिति।।