ब्रह्मसूत्र

काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात्।।3.3.60।।

काम्याधिकरणम्।।3.3.60।।

अविशिष्टफलत्वादित्यस्य प्रत्युदाहरणम्। यासु पुनः काम्यासु विद्यासुस य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदितिस यो नाम ब्रह्मेत्युपास्ते यावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति इति चैवमाद्यासु क्रियावत् अदृष्टेनात्मना आत्मीयं फलं साधयन्तीषु साक्षात्करणापेक्षा नास्ति ता यथाकामं समुच्चीयेरन् न वा समुच्चीयेरन् पूर्वहेत्वभावात् पूर्वस्य अविशिष्टफलत्वादित्यस्य विकल्पहेतोः अभावात्।।