ब्रह्मसूत्र

अङ्गेषु यथाश्रयभावः।।3.3.61।।

यथाश्रयभावाधिकरणम्।।3.3.61।।

कर्माङ्गेषु उद्गीथादिषु ये आश्रिताः प्रत्यया वेदत्रयविहिताः किं ते समुच्चीयेरन् किं वा यथाकामं स्युरिति संशये यथाश्रयभाव इत्याह। यथैव एषामाश्रयाः स्तोत्रादयः संभूय भवन्ति एवं प्रत्यया अपि आश्रयतन्त्रत्वात्प्रत्ययानाम्।।