ब्रह्मसूत्र

न वा तत्सहभावाश्रुतेः।।3.3.65।।

।।3.3.65।।

न वेति पक्षव्यावर्तनम्। न यथाश्रयभाव आश्रितानामुपासनानां भवितुमर्हति कुतः तत्सहभावाश्रुतेः यथा हि त्रिवेदविहितानामङ्गानां स्तोत्रादीनां सहभावः श्रूयते ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रमुपाकरोति स्तुतमनुशंसति प्रस्तोतः साम गाय होतरेतद्यज इत्यादिना नैवमुपासनानां सहभावश्रुतिरस्ति। ननु प्रयोगवचन एषां सहभावं प्रापयेत् नेति ब्रूमः पुरुषार्थत्वादुपासनानाम् प्रयोगवचनो हि क्रत्वर्थानामुद्गीथादीनां सहभावं प्रापयेत् उद्गीथाद्युपासनानि तु क्रत्वर्थाश्रयाण्यपि गोदोहनादिवत् पुरुषार्थानीत्यवोचामपृथग्घ्यप्रतिबन्धः फलम् इत्यत्र। अयमेव च उपदेशाश्रयो विशेषः अङ्गानां तदालम्बनानां च उपासनानाम् यदेकेषां क्रत्वर्थत्वम् एकेषां पुरुषार्थत्वमिति। परं च लिङ्गद्वयम् अकारणमुपासनसहभावस्य श्रुतिन्यायाभावात्। न च प्रतिप्रयोगम् आश्रयकात्स्न्र्योपसंहारादाश्रितानामपि तथात्वं विज्ञातुं शक्यम् अतत्प्रयुक्तत्वादुपासनानाम् आश्रयतन्त्राण्यपि हि उपासनानि कामम् आश्रयाभावे मा भूवन् न त्वाश्रयसहभावेन सहभावनियममर्हन्ति तत्सहभावाश्रुतेरेव। तस्मात् यथाकाममेव उपासनान्यनुष्ठीयेरन्।।