ब्रह्मसूत्र

दर्शनाच्च।।3.3.66।।

।।3.3.66।।

दर्शयति च श्रुतिरसहभावं प्रत्ययानाम् एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति इति। सर्वप्रत्ययोपसंहारे हि सर्वे सर्वविद इति न विज्ञानवता ब्रह्मणा परिपाल्यत्वमितरेषां संकीर्त्येत। तस्मात् यथाकाममुपासनानां समुच्चयो विकल्पो वेति।।

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
शारीरकमीमांसासूत्रभाष्ये तृतीयाध्यायस्य तृतीयः पादः।।