ब्रह्मसूत्र

।। तृतीयोऽध्यायः ।।
।। चतुर्थः पादः ।।

पुरुषार्थोऽतः शब्दादिति बादरायणः ।। 3.4.1 ।।

पुरुषार्थाधिकरणम्।।3.4.1।।

पुरुषार्थोऽत इति। अस्माद्वेदान्तविहितादात्मज्ञानात् स्वतन्त्रात् पुरुषार्थः सिध्यतीति बादरायण आचार्यो मन्यते कुत एतदवगम्यते शब्दादित्याह। तथा हि तरति शोकमात्मवित् स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति ब्रह्मविदाप्नोति परम् आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ संपत्स्ये य आत्मापहतपाप्मा इत्युपक्रम्य स सर्वांश्च लोकानाप्नोति सर्वांश्च कामान्यस्तमात्मानमनुविद्य विजानाति इति आत्मा वा अरे द्रष्टव्यः इत्युपक्रम्य एतावदरे खल्वमृतत्वम् इति एवंजातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थहेतुत्वं श्रावयति।।

अथात्र प्रत्यवतिष्ठते