ब्रह्मसूत्र

शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः।।3.4.2।।

।।3.4.2।।

कर्तृत्वेन आत्मनः कर्मशेषत्वात् तद्विज्ञानमपि व्रीहिप्रोक्षणादिवत् विषयद्वारेण कर्मसंबन्ध्येव इत्यतः तस्मिन् अवगतप्रयोजने आत्मज्ञाने या फलश्रुतिः सा अर्थवादः इति जैमिनिराचार्यो मन्यते। यथा अन्येषु द्रव्यसंस्कारकर्मसु यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं श्रृणोति यदाङ्क्ते चक्षुरेव भ्रातृव्यस्य वृङ्क्ते यत्प्रयाजानूयाजा इज्यन्ते वर्म वा एतद्यज्ञस्य क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै इत्येवंजातीयका फलश्रुतिः अर्थवादः तद्वत्। कथं पुनः अस्य अनारभ्याधीतस्य आत्मज्ञानस्य प्रकरणादीनामन्यतमेनापि हेतुना विना क्रतुप्रवेश आशङ्क्यते कर्तृद्वारेण वाक्यात् तद्विज्ञानस्य क्रतुसंबन्ध इति चेत् न वाक्याद्विनियोगानुपपत्तेः अव्यभिचारिणा हि केनचिद्द्वारेण अनारभ्याधीतानामपि वाक्यनिमित्तः क्रतुसंबन्धोऽवकल्पते कर्ता तु व्यभिचारि द्वारम् लौकिकवैदिककर्मसाधारण्यात् तस्मान्न तद्द्वारेण आत्मज्ञानस्य क्रतुसंबन्धसिद्धिरिति न व्यतिरेकविज्ञानस्य वैदिकेभ्यः कर्मभ्योऽन्यत्र अनुपयोगात् न हि देहव्यतिरिक्तात्मज्ञानं लौकिकेषु कर्मसु उपयुज्यते सर्वथा दृष्टार्थप्रवृत्त्युपपत्तेः वैदिकेषु तु देहपातोत्तरकालफलेषु देहव्यतिरिक्तात्मज्ञानमन्तरेण प्रवृत्तिः नोपपद्यत इति उपयुज्यते व्यतिरेकविज्ञानम्। ननु अपहतपाप्मत्वादिविशेषणात् असंसार्यात्मविषयम् औपनिषदं दर्शनं न प्रवृत्त्यङ्गं स्यात् न प्रियादिसंसूचितस्य संसारिण एव आत्मनो द्रष्टव्यत्वोपदेशात् अपहतपाप्मत्वादि विशेषणं तु स्तुत्यर्थं भविष्यति। ननु तत्र तत्र प्रसाधितमेतत् अधिकमसंसारि ब्रह्म जगत्कारणम् तदेव च संसारिण आत्मनः पारमार्थिकं स्वरूपम् उपनिषत्सु उपदिश्यत इति सत्यं प्रसाधितम् तस्यैव तु स्थूणानिखननवत् फलद्वारेण आक्षेपसमाधाने क्रियेते दार्ढ्याय।।