ब्रह्मसूत्र

।। चतुर्थोऽध्यायः ।।
।। प्रथमः पादः ।।

आवृत्तिरसकृदुपदेशात् ।। 4.1.1 ।।

आवृत्यधिकरणम्।।4.1.1।।

आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत सोऽन्वेष्टव्यः स विजिज्ञासितव्यः इति च एवमादिश्रवणेषु संशयः किं सकृत्प्रत्ययः कर्तव्यः आहोस्वित् आवृत्त्येति। किं तावत्प्राप्तम् सकृत्प्रत्ययः स्यात् प्रयाजादिवत् तावता शास्त्रस्य कृतार्थत्वात् अश्रूयमाणायां हि आवृत्तौ क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत्। ननु असकृदुपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्येवमादयः एवमपि यावच्छब्दमावर्तयेत् सकृच्छ्रवणं सकृन्मननं सकृन्निदिध्यासनं चेति नातिरिक्तम्। सकृदुपदेशेषु तु वेद उपासीत इत्येवमादिषु अनावृत्तिरित्येवं प्राप्ते ब्रूमः प्रत्ययावृत्तिः कर्तव्या कुतः असकृदुपदेशात् श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्येवंजातीयको हि असकृदुपदेशः प्रत्ययावृत्तिं सूचयति। ननु उक्तम् यावच्छब्दमेव आवर्तयेत् नाधिकमिति न दर्शनपर्यवसानत्वादेषाम् दर्शनपर्यवसानानि हि श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्ति यथा अवघातादीनि तण्डुलादिनिष्पत्तिपर्यवसानानि हि तद्वत्। अपि च उपासनं निदिध्यासनं च इत्यन्तर्णीतावृत्तिगुणैव क्रिया अभिधीयते तथा हि लोके गुरुमुपास्ते राजानमुपास्ते इति च यस्तात्पर्येण गुर्वादीननुवर्तते स एवमुच्यते तथा ध्यायति प्रोषितनाथा पतिम् इति या निरन्तरस्मरणा पतिं प्रति सोत्कण्ठा सा एवमभिधीयते। विद्युपास्त्योश्च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते क्वचित् विदिनोपक्रम्य उपासिनोपसंहरति यथा यस्तद्वेद यत्स वेद स मयैतदुक्तः इत्यत्र अनु म एतां भगवो देवतां शाधि यां देवतामुपास्से इति क्वचिच्च उपासिनोपक्रम्य विदिनोपसंहरति यथा मनो ब्रह्मेत्युपासीत इत्यत्र भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेद इति। तस्मात्सकृदुपदेशेष्वपि आवृत्तिसिद्धिः। असकृदुपदेशस्तु आवृत्तेः सूचकः।।