ब्रह्मसूत्र

लिङ्गाच्च।।4.1.2।।

।।4.1.2।।

लिङ्गमपि प्रत्ययावृत्तिं प्रत्याययति। तथा हि उद्गीथविज्ञानं प्रस्तुत्य आदित्य उद्गीथः इत्येतत् एकपुत्रतादोषेणापोद्य रश्मींस्त्वं पर्यावर्तयात् इति रश्मिबहुत्वविज्ञानं बहुपुत्रतायै विदधत् सिद्धवत्प्रत्ययावृत्तिं दर्शयति तत्सामान्यात् सर्वप्रत्ययेष्वावृत्तिसिद्धिः।।

अत्राह भवतु नाम साध्यफलेषु प्रत्ययेष्वावृत्तिः तेष्वावृत्तिसाध्यस्यातिशयस्य संभवात् यस्तु परब्रह्मविषयः प्रत्ययो नित्यशुद्धबुद्धमुक्तस्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किमर्था आवृत्तिरिति। सकृच्छ्रुतौ च ब्रह्मात्मत्वप्रतीत्यनुपपत्तेरावृत्त्यभ्युपगम इति चेत् न आवृत्तावपि तदनुपपत्तेः यदि हि तत्त्वमसि इत्येवंजातीयकं वाक्यं सकृच्छ्रूयमाणं ब्रह्मात्मत्वप्रतीतिं नोत्पादयेत् ततस्तदेव आवर्त्यमानमुत्पादयिष्यतीति का प्रत्याशा स्यात्। अथोच्येत न केवलं वाक्यं कंचिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यमनुभावयिष्यति ब्रह्मात्मत्वमिति तथाप्यावृत्त्यानर्थक्यमेव सापि हि युक्तिः सकृत्प्रवृत्तैव स्वमर्थमनुभावयिष्यति। अथापि स्यात् युक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्रकम्पादिलिङ्गाच्च शूलसद्भावसामान्यमेव परः प्रतिपद्यते न विशेषमनुभवति यथा स एव शूली विशेषानुभवश्च अविद्याया निवर्तकः तदर्था आवृत्तिरिति चेत् न
असकृदपि तावन्मात्रे क्रियमाणे विशेषविज्ञानोत्पत्त्यसंभवात् न हि सकृत्प्रयुक्ताभ्यां शास्त्रयुक्तिभ्यामनवगतो विशेषः शतकृत्वोऽपि प्रयुज्यमानाभ्यामवगन्तुं शक्यते तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्येत यदि वा सामान्यमेव उभयथापि सकृत्प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्त्यनुपयोगः न च सकृत्प्रयुक्ते शास्त्रयुक्ती कस्यचिदप्यनुभवं नोत्पादयत इति शक्यते नियन्तुम् विचित्रप्रज्ञत्वात्प्रतिपत्तृ़णाम्। अपि च अनेकांशोपेते लौकिके पदार्थे सामान्यविशेषवति एकेनावधानेन एकमंशमवधारयति अपरेण अपरम् इति स्यादप्यभ्यासोपयोगः यथा दीर्घप्रपाठकग्रहणादिषु न तु निर्विशेषे ब्रह्मणि सामान्यविशेषरहिते चैतन्यमात्रात्मके प्रमोत्पत्तावभ्यासापेक्षा युक्तेति।।

अत्रोच्यते भवेदावृत्त्यानर्थक्यं तं प्रति यः तत्त्वमसि इति सकृदुक्तमेव ब्रह्मात्मत्वमनुभवितुं शक्नुयात् यस्तु न शक्नोति तं प्रति उपयुज्यत एव आवृत्तिः। तथा हि च्छान्दोग्ये तत्त्वमसि श्वेतकेतो इत्युपदिश्य भूय एव मा भगवान्विज्ञापयतु इति पुनः पुनः परिचोद्यमानः तत्तदाशङ्काकारणं निराकृत्य तत्त्वमसि इत्येवासकृदुपदिशति तथा च श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्यादि दर्शितम्। ननु उक्तम् सकृच्छ्रुतं चेत् तत्त्वमसिवाक्यं स्वमर्थमनुभावयितुं न शक्नोति तत आवर्त्यमानमपि नैव शक्ष्यतीति नैष दोषः न हि दृष्टेऽनुपपन्नं नाम दृश्यन्ते हि सकृच्छ्रुताद्वाक्यात् मन्दप्रतीतं वाक्यार्थं आवर्तयन्तः तत्तदाभासव्युदासेन सम्यक्प्रतिपद्यमानाः। अपि च तत्त्वमसि इत्येतद्वाक्यं त्वंपदार्थस्य तत्पदार्थभावमाचष्टे तत्पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणमभिधीयते सत्यं ज्ञानमनन्तं ब्रह्म विज्ञानमानन्दं ब्रह्म अदृष्टं द्रष्टृ अविज्ञातं विज्ञातृ अजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम् इत्यादिशास्त्रसिद्धम् तत्र अजादिशब्दैर्जन्मादयो भावविकारा निवर्तिताः अस्थूलादिशब्दैश्च स्थौल्यादयो द्रव्यधर्माः विज्ञानादिशब्दैश्च चैतन्यप्रकाशात्मकत्वमुक्तम् एष व्यावृत्तसर्वसंसारधर्मकोऽनुभवात्मको ब्रह्मसंज्ञकस्तत्पदार्थो वेदान्ताभियुक्तानां प्रसिद्धः तथा त्वंपदार्थोऽपि प्रत्यगात्मा श्रोता देहादारभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेनावधारितः तत्र येषाम् एतौ पदार्थौ अज्ञानसंशयविपर्ययप्रतिबद्धौ तेषां तत्त्वमसि इत्येतद्वाक्यं स्वार्थे प्रमां नोत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य इत्यतः तान्प्रति एष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः। यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथापि अध्यारोपितं तस्मिन् बह्वंशत्वं देहेन्द्रियमनोबुद्धिविषयवेदनादिलक्षणम् तत्र एकेन अवधानेन एकमंशमपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः तत्तु पूर्वरूपमेव आत्मप्रतिपत्तेः। येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धोऽस्ति ते शक्नुवन्ति सकृदुक्तमेव तत्त्वमसिवाक्यार्थम् अनुभवितुमिति तान्प्रति आवृत्त्यानर्थक्यमिष्टमेव सकृदुत्पन्नैव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयतीति नात्र कश्चिदपि क्रमोऽभ्युपगम्यते। सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिर्भवेत् बलवती हि आत्मनो दुःखित्वादिप्रतिपत्तिः अतो न दुःखित्वाद्यभावं कश्चित्प्रतिपद्यत इति चेत् न देहाद्यभिमानवत् दुःखित्वाद्यभिमानस्य मिथ्याभिमानत्वोपपत्तेः प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्ये इति च मिथ्याभिमानो दृष्टः तथा बाह्यतरेष्वपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्ये इत्यध्यारोपो दृष्टः तथा दुःखित्वाद्यभिमानोऽपि स्यात् देहादिवदेव चैतन्याद्बहिरुपलभ्यमानत्वाद्दुःखित्वादीनाम् सुषुप्तादिषु च अननुवृत्तेः चैतन्यस्य तु सुषुप्तेऽपि अनुवृत्तिमामनन्ति यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति इत्यादिना तस्मात् सर्वदुःखविनिर्मुक्तैकचैतन्यात्मकोऽहमित्येष आत्मानुभवः। न च एवम् आत्मानमनुभवतः किंचिदन्यत्कृत्यमवशिष्यते तथा च श्रुतिः किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः इत्यात्मविदः कर्तव्याभावं दर्शयति स्मृतिरपि यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः। आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते इति। यस्य तु न एषोऽनुभवो द्रागिव जायते तं प्रति अनुभवार्थ एव आवृत्त्यभ्युपगमः। तत्रापि न तत्त्वमसिवाक्यार्थात् प्रच्याव्य आवृत्तौ प्रवर्तयेत् न हि वरघाताय कन्यामुद्वाहयन्ति नियुक्तस्य च अस्मिन्नधिकृतोऽहं कर्ता मयेदं कर्तव्यम् इत्यवश्यं ब्रह्मप्रत्ययाद्विपरीतप्रत्यय उत्पद्यते यस्तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन्नेव वाक्यार्थे स्थिरीकार आवृत्त्यादिवाचोयुक्त्या अभ्युपेयते। तस्मात् परब्रह्मविषयेऽपि प्रत्यये तदुपायोपदेशेष्वावृत्तिसिद्धिः।।