ब्रह्मसूत्र

आत्मेति तूपगच्छन्ति ग्राहयन्ति च।।4.1.3।।

आत्मत्वोपासनाधिकरणम्।।4.1.3।।

यः शास्त्रोक्तविशेषणः परमात्मा स किम् अहमिति ग्रहीतव्यः किं वा मदन्य इति एतद्विचारयति। कथं पुनरात्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति उच्यते अयमात्मशब्दो मुख्यः शक्यतेऽभ्युपगन्तुम् सति जीवेश्वरयोरभेदसंभवे इतरथा तु गौणोऽयमभ्युपगन्तव्यः इति मन्यते। किं तावत्प्राप्तम् न अहमिति ग्राह्यः न हि अपहतपाप्मत्वादिगुणो विपरीतगुणत्वेन शक्यते ग्रहीतुम् विपरीतगुणो वा अपहतपाप्मत्वादिगुणत्वेन अपहतपाप्मत्वादिगुणश्च परमेश्वरः तद्विपरीतगुणस्तु शारीरः ईश्वरस्य च संसार्यात्मत्वे ईश्वराभावप्रसङ्गः ततः शास्त्रानर्थक्यम् संसारिणोऽपि ईश्वरात्मत्वे अधिकार्यभावाच्छास्त्रानर्थक्यमेव प्रत्यक्षादिविरोधश्च। अन्यत्वेऽपि तादात्म्यदर्शनं शास्त्रात् कर्तव्यम् प्रतिमादिष्विव विष्ण्वादिदर्शनम् इति चेत् काममेवं भवतु न तु संसारिणो मुख्य आत्मा ईश्वर इत्येतत् नः प्रापयितव्यम्।।

एवं प्राप्ते ब्रूमः आत्मेत्येव परमेश्वरः प्रतिपत्तव्यः। तथा हि परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैव एतमुपगच्छन्ति त्वं वा अहमस्मि भगवो देवतेऽहं वै त्वमसि देवते इति तथा अन्येऽपि अहं ब्रह्मास्मि इत्येवमादय आत्मत्वोपगमा द्रष्टव्याः। ग्राहयन्ति च आत्मत्वेनैव ईश्वरं वेदान्तवाक्यानि एष त आत्मा सर्वान्तरः एष त आत्मान्तर्याम्यमृतः तत्सत्यं स आत्मा तत्त्वमसि इत्येवमादीनि। यदुक्तम् प्रतीकदर्शनमिदं विष्णुप्रतिमान्यायेन भविष्यतीति तदयुक्तम् गौणत्वप्रसङ्गात् वाक्यवैरूप्याच्च यत्र हि प्रतीकदृष्टिरभिप्रेयते सकृदेव तत्र वचनं भवति यथा मनो ब्रह्म आदित्यो ब्रह्म इत्यादि इह पुनः त्वम् अहमस्मि अहं च त्वमसीत्याह अतः प्रतीकश्रुतिवैरूप्यात् अभेदप्रतिपत्तिः भेददृष्ट्यपवादाच्च तथा हि अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वं वेद इत्येवमाद्या भूयसी श्रुतिः भेददर्शनमपवदति। यत्तूक्तम् न विरुद्धगुणयोरन्योन्यात्मत्वसंभव इति नायं दोषः विरुद्धगुणताया मिथ्यात्वोपपत्तेः। यत्पुनरुक्तम् ईश्वराभावप्रसङ्ग इति तदसत् शास्त्रप्रामाण्यात् अनभ्युपगमाच्च न हि ईश्वरस्य संसार्यात्मत्वं प्रतिपाद्यत इत्यभ्युपगच्छामः किं तर्हि संसारिणः संसारित्वापोहेन ईश्वरात्मत्वं प्रतिपिपादयिषितमिति। एवं च सति अद्वैतेश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्येति व्यवतिष्ठते। यदप्युक्तम् अधिकार्यभावः प्रत्यक्षादिविरोधश्चेति तदप्यसत् प्राक्प्रबोधात् संसारित्वाभ्युपगमात् तद्विषयत्वाच्च प्रत्यक्षादिव्यवहारस्य यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना हि प्रबोधे प्रत्यक्षाद्यभावं दर्शयति। प्रत्यक्षाद्यभावे श्रुतेरप्यभावप्रसङ्ग इति चेत् न इष्टत्वात् अत्र पितापिता भवति इत्युपक्रम्य वेदा अवेदाः इति वचनात् इष्यत एव अस्माभिः श्रुतेरप्यभावः प्रबोधे। कस्य पुनरयम् अप्रबोध इति चेत् यस्त्वं पृच्छसि तस्य ते इति वदामः। ननु अहमीश्वर एवोक्तः श्रुत्या यद्येवं प्रतिबुद्धोऽसि नास्ति कस्यचिदप्रबोधः। योऽपि दोषश्चोद्यते कैश्चिदविद्यया किल आत्मनः सद्वितीयत्वात् अद्वैतानुपपत्तिरिति सोऽपि एतेन प्रत्युक्तः। तस्मात् आत्मेत्येव ईश्वरे मनो दधीत।।