ब्रह्मसूत्र

।। चतुर्थोऽध्यायः ।।
।। द्वितीयः पादः ।।

वाङ्मनसि दर्शनाच्छब्दाच्च ।। 4.2.1 ।।

वागधिकरणम्।।4.2.1।।

अस्ति प्रायणविषया श्रुतिः अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि संपद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायाम् इति। किमिह वाच एव वृत्तिमत्त्या मनसि संपत्तिरुच्यते उत वाग्वृत्तेरिति विशयः। तत्र वागेव तावत् मनसि संपद्यत इति प्राप्तम् तथा हि श्रुतिरनुगृहीता भवति इतरथा लक्षणा स्यात् श्रुतिलक्षणाविशये च श्रुतिर्न्याय्या न लक्षणा तस्मात् वाच एव अयं मनसि प्रलय इति।।

एवं प्राप्ते ब्रूमः वाग्वृत्तिर्मनसि संपद्यत इति। कथं वाग्वृत्तिरिति व्याख्यायते यावता वाङ्मनसि इत्येव आचार्यः पठति सत्यमेतत् पठिष्यति तु परस्तात् अविभागो वचनात् इति तस्मादत्र वृत्त्युपशममात्रं विवक्षतीति गम्यते। तत्त्वप्रलयविवक्षायां तु सर्वत्रैव अविभागसाम्यात् किं परत्रैव विशिंष्यात् अविभागः इति तस्मादत्र वृत्त्युपसंहारविवक्षा। वाग्वृत्तिः पूर्वमुपसंह्रियते मनोवृत्ताववस्थितायामित्यर्थः। कस्मात् दर्शनात् दृश्यते हि वाग्वृत्तेः पूर्वोपसंहारो मनोवृत्तौ विद्यमानायाम् न तु वाच एव वृत्तिमत्त्या मनस्युपसंहारः केनचिदपि द्रष्टुं शक्यते। ननु श्रुतिसामर्थ्यात् वाच एवायं मनस्यप्ययो युक्त इत्युक्तम् नेत्याह अतत्प्रकृतित्वात् यस्य हि यत उत्पत्तिः तस्य तत्र प्रलयो न्याय्यः मृदीव शरावस्य न च मनसो वागुत्पद्यत इति किंचन प्रमाणमस्ति। वृत्त्युद्भवाभिभवौ तु अप्रकृतिसमाश्रयावपि दृश्येते पार्थिवेभ्यो हि इन्धनेभ्यः तैजसस्याग्नेर्वृत्तिरुद्भवति अप्सु च उपशाम्यति। कथं तर्हि अस्मिन्पक्षे शब्दः वाङ्मनसि संपद्यते इति अत आह शब्दाच्चेति शब्दोऽप्यस्मिन्पक्षेऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारादित्यर्थः।।