ब्रह्मसूत्र

अत एव च सर्वाण्यनु।।4.2.2।।

।।4.2.2।।

तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः इत्यत्र अविशेषेण सर्वेषामेवेन्द्रियाणां मनसि संपत्तिः श्रूयते तत्रापि अत एव वाच इव चक्षुरादीनामपि सवृत्तिके मनस्यवस्थिते वृत्तिलोपदर्शनात् तत्त्वप्रलयासंभवात् शब्दोपपत्तेश्च वृत्तिद्वारेणैव सर्वाणीन्द्रियाणि मनोऽनुवर्तन्ते। सर्वेषां करणानां मनस्युपसंहाराविशेषे सति वाचः पृथग्ग्रहणम् वाङ्मनसि संपद्यते इत्युदाहरणानुरोधेन।।