ब्रह्मसूत्र

तन्मनः प्राण उत्तरात्।।4.2.3।।

मनोऽधिकरणम्।।4.2.3।।

समधिगतमेतत् वाङ्मनसि संपद्यते इत्यत्र वृत्तिसंपत्तिविवक्षेति अथ यदुत्तरं वाक्यम् मनः प्राणे इति किमत्रापि वृत्तिसंपत्तिरेव विवक्ष्यते उत वृत्तिमत्संपत्तिः इति विचिकित्सायाम् वृत्तिमत्संपत्तिरेव अत्र इति प्राप्तम् श्रुत्यनुग्रहात् तत्प्रकृतित्वोपपत्तेश्च तथा हि अन्नमयं हि सोम्य मन आपोमयः प्राणः इत्यन्नयोनि मन आमनन्ति अब्योनिं च प्राणम् आपश्चान्नमसृजन्त इति श्रुतिः। अतश्च यन्मनः प्राणे प्रलीयते अन्नमेव तदप्सु प्रलीयते अन्नं हि मनः आपश्च प्राणः प्रकृतिविकाराभेदादिति। एवं प्राप्ते ब्रूमः तदपि आगृहीतबाह्येन्द्रियवृत्ति मनो वृत्तिद्वारेणैव प्राणे प्रलीयत इति उत्तराद्वाक्यादवगन्तव्यम् तथा हि सुषुप्सोर्मुमूर्षोश्च प्राणवृत्तौ परिस्पन्दात्मिकायामवस्थितायाम् मनोवृत्तीनामुपशमो दृश्यते न च मनसः स्वरूपाप्ययः प्राणे संभवति अतत्प्रकृतित्वात्। ननु दर्शितं मनसः प्राणप्रकृतित्वम् नैतत्सारम् न हि ईदृशेन प्राणाडिकेन
तत्प्रकृतित्वेन मनः प्राणे संपत्तुमर्हति एवमपि हि अन्ने मनः संपद्येत अप्सु चान्नम् अप्स्वेव च प्राणः न ह्येतस्मिन्नपि पक्षे प्राणभावपरिणताभ्योऽद्भ्यो मनो जायत इति किंचन प्रमाणमस्ति तस्मात् न मनसः प्राणे स्वरूपाप्ययः। वृत्त्यप्ययेऽपि तु शब्दोऽवकल्पते वृत्तिवृत्तिमतोरभेदोपचारात् इति दर्शितम्।।