ब्रह्मसूत्र

न च कार्ये प्रतिपत्त्यभिसन्धिः।।4.3.14।।

।।4.3.14।।

अपि च प्रजापतेः सभां वेश्म प्रपद्ये इति नायं कार्यविषयः प्रतिपत्त्यभिसंधिः नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म इति कार्यविलक्षणस्य परस्यैव ब्रह्मणः प्रकृतत्वात् यशोऽहं भवामि ब्राह्मणानाम् इति च सर्वात्मत्वेनोपक्रमणात् न तस्य प्रतिमा अस्ति यस्य नाम महद्यशः इति च परस्यैव ब्रह्मणो यशोनामत्वप्रसिद्धेः। सा चेयं वेश्मप्रतिपत्तिर्गतिपूर्विका हार्दविद्यायामुदिता तदपराजिता पूर्ब्रह्मणः प्रभुविमितं हिरण्मयम् इत्यत्र। पदेरपि च गत्यर्थत्वात् मार्गापेक्षता अवसीयते। तस्मात्परब्रह्मविषया गतिश्रुतय इति पक्षान्तरम्। तावेतौ द्वौ पक्षावाचार्येण सूत्रितौ गत्युपपत्त्यादिभिरेकः मुख्यत्वादिभिरपरः। तत्र गत्युपपत्त्यादयः प्रभवन्ति मुख्यत्वादीनाभासयितुम् न तु मुख्यत्वादयो गत्युपपत्त्यादीन् इति आद्य एव सिद्धान्तो व्याख्यातः द्वितीयस्तु पूर्वपक्षः। न ह्यसत्यपि संभवे मुख्यस्यैवार्थस्य ग्रहणमिति कश्चिदाज्ञापयिता विद्यते। परविद्याप्रकरणेऽपि च तत्स्तुत्यर्थं विद्यान्तराश्रयगत्यनुकीर्तनमुपपद्यते विष्वङ्ङन्या उत्क्रमणे भवन्ति इतिवत्। प्रजापतेः सभां वेश्म प्रपद्ये इति तु पूर्ववाक्यविच्छेदेन कार्येऽपि प्रतिपत्त्यभिसंधिर्न विरुध्यते। सगुणेऽपि च ब्रह्मणि सर्वात्मत्वसंकीर्तनम् सर्वकर्मा सर्वकामः इत्यादिवत् अवकल्पते। तस्मादपरविषया एव गतिश्रुतयः।।

केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणि इत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति तत् अनुपपन्नम् गन्तव्यत्वानुपपत्तेर्ब्रह्मणः यत्सर्वगतं सर्वान्तरं सर्वात्मकं च परं ब्रह्म आकाशवत्सर्वगतश्च नित्यः यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः आत्मैवेदं सर्वम् ब्रह्मैवेदं विश्वमिदं वरिष्ठम् इत्यादिश्रुतिनिर्धारितविशेषम् तस्य गन्तव्यता न कदाचिदप्युपपद्यते न हि गतमेव गम्यते अन्यो ह्यन्यद्गच्छतीति प्रसिद्धं लोके। ननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टस्य दृष्टा यथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथंचित् गन्तव्यता स्यादिति न प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मणः निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् अस्थूलमनण्वह्रस्वमदीर्घम् स बाह्याभ्यन्तरो ह्यजः स वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म स एष नेति नेत्यात्मा इत्यादिश्रुतिस्मृतिन्यायेभ्यो न देशकालादिविशेषयोगः परमात्मनि कल्पयितुं शक्यते येन भूप्रदेशवयोवस्थान्यायेनास्य गन्तव्यता स्यात् भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते देशकालविशिष्टा गन्तव्यता। जगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् न विशेषनिराकरणश्रुतीनामनन्यार्थत्वात्। उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् न तासामेकत्वप्रतिपादनपरत्वात् मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य च अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति।।

कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वम् न पुनरितरशेषत्वमितरासामिति उच्यते विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् न हि आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते पुरुषार्थसमाप्तिबुद्ध्युत्पत्तेः तत्र को मोहः कः शोक एकत्वमनुपश्यतः अभयं वै जनक प्राप्तोऽसि विद्वान्न बिभेति कुतश्चन। एत् वाव न तपति। किमह्ाधु नाकरवम्। किमहं पापमकरवम् इत्यादिश्रुतिभ्यः तथैव च विदुषां तुष्ट्यनुभवादिदर्शनात् विकारानृताभिसंध्यपवादाच्च मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति इति अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यम्। नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते तथा हि तत्रैतच्छुङ्गमुत्पतितं सोम्य विजानीहि नेदममूलं भविष्यति इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति यतो वा इमानि भूतानि जायन्ते। येन जातानि जीवन्ति। यत्प्रयन्त्यभिसंविशन्ति। तद्विजिज्ञासस्व। तद्ब्रह्म इति च एवमुत्पत्त्यादिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मणः अतश्च गन्तव्यत्वानुपपत्तिः। न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन्ब्रह्माप्येति इति च परस्मिन्ब्रह्मणि गतिं निवारयति तद्व्यख्यातम् स्पष्टो ह्येकेषाम् इत्यत्र।।

गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारः अन्यो वा ततः स्यात् अत्यन्ततादात्म्ये गमनानुपपत्तेः। यद्येवम् ततः किं स्यात् अत उच्यते यद्येकदेशः तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना निरवयवत्वप्रसिद्धेः। विकारपक्षेऽप्येतत्तुल्यम् विकारेणापि विकारिणो नित्यप्राप्तत्वात् न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते परित्यागे वा अभावप्राप्तेः। विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवक्लृप्तम्। अथ अन्य एव जीवो ब्रह्मणः सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति व्यापित्वे गमनानुपपत्तिः मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात्। परस्माच्च अन्यत्वे जीवस्य तत्त्वमसि इत्यादिशास्त्रबाधप्रसङ्गः। विकारावयवपक्षयोरपि समानोऽयं दोषः। विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् न मुख्यैकत्वानुपपत्तेः। सर्वेषु च एतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः संसार्यात्मत्वानिवृत्तेः निवृत्तौ वा स्वरूपनाशप्रसङ्गः ब्रह्मात्मत्वानभ्युपगमाच्च।।

यत्तु कैश्चिज्जल्प्यते नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये काम्यानि प्रतिषिद्धानि
च परिह्रियन्ते स्वर्गनरकानवाप्तये सांप्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षिप्यन्ते इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसंधानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति तदसत् प्रमाणाभावात्। न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् मोक्षार्थी इत्थं समाचरेदिति। स्वमनीषया तु एतत्तर्कितम् यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति। न च एतत् तर्कयितुं शक्यते निमित्ताभावस्य दुर्ज्ञानत्वात्। बहूनि हि कर्माणि जात्यन्तरसंचितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः संभाव्यन्ते। तेषां विरुद्धफलानां युगपदुपभोगासंभवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते इत्यतः तेषामवशिष्टानां सांप्रतेनोपभोगेन क्षपणासंभवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम्। कर्मशेषसद्भावसिद्धिश्च तद्य इह रमणीयचरणाः ततः शेषेण इत्यादिश्रुतिस्मृतिभ्यः। स्यादेतत् नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति तत् न विरोधाभावात् सति हि विरोधे क्षेप्यक्षेपकभावो भवति न च जन्मान्तरसंचितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः शुद्धिरूपत्वाविशेषात् दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् न तु तावता देहान्तरनिमित्ताभावसिद्धिः सुकृतनिमित्तत्वोपपत्तेः दुरितस्याप्यशेषक्षपणानवगमात्। न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति फलान्तरस्याप्यनुनिष्पादिनः संभवात् स्मरति हि आपस्तम्बः तद्यथा आम्रे फलार्थे निमित्ते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते इति। न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् सुनिपुणानामपि सूक्ष्मापराधदर्शनात् संशयितव्यं तु भवति तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव। न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात्। स्यादेतत् कर्तृत्वभोक्तृत्वकार्यम् अनर्थः न तच्छक्तिः तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति तच्च न। शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात्। अथापि स्यात् न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि अत एकाकिनी सा स्थितापि नापराध्यतीति तच्च न निमित्तानामपि शक्तिलक्षणेन संबन्धेन नित्यसंबद्धत्वात्। तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् न कथंचन मोक्षं प्रति आशा अस्ति। श्रुतिश्च नान्यः पन्था विद्यतेऽयनाय इति ज्ञानादन्यं मोक्षमार्गं वारयति।।

परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् न प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः शास्त्रं च यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा पुनः प्रबुद्धविषये यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत् इत्यादिना तदभावं दर्शयति। तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य बाधितत्वात् न कथंचन गतिरुपपादयितुं शक्या। किंविषयाः पुनर्गतिश्रुतय इति उच्यते सगुणविद्याविषया भविष्यन्ति। तथा हि क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते क्वचित्पर्यङ्कविद्याम् क्वचिद्वैश्वानरविद्याम् यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते यथा प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म इति अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म इति च तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् संभवति गतिः। न क्वचित्परब्रह्मविषया गतिः श्राव्यते यथा गतिप्रतिषेधः श्रावितः न तस्य प्राणा उत्क्रामन्ति इति। ब्रह्मविदाप्नोति परम् इत्यादिषु तु सत्यपि आप्नोतेर्गत्यर्थत्वे वर्णितेन न्यायेन देशान्तरप्राप्त्यसंभवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते ब्रह्मैव सन्ब्रह्माप्येति इत्यादिवत् इति द्रष्टव्यम्। अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् अनुचिन्तनाय वा तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते तस्मादपरविषया गतिः। तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते। किं द्वे ब्रह्मणी परमपरं चेति बाढम् एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः इत्यादिदर्शनात्। किं पुनः परं ब्रह्म किमपरमिति उच्यते यत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधात् अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते तत्परम् तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यते मनोमयः प्राणशरीरो भारूपः
इत्यादिशब्दैः तदपरम्। ननु एवमद्वितीयश्रुतिरुपरुध्येत न अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात्। तस्य च अपरब्रह्मोपासनस्य तत्संनिधौ श्रूयमाणम् स यदि पितृलोककामो भवति इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति अनिवर्तितत्वादविद्यायाः तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम्। सर्वगतत्वेऽपि च आत्मनः आकाशस्येव घटादिगमने बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म तद्गुणसारत्वात् इत्यत्र। तस्मात् कार्यं बादरिः इत्येष एव स्थितः पक्षः परं जैमिनिः इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम्।।