ब्रह्मसूत्र

तडितोऽधि वरुणः सम्बन्धात्।।4.3.3।।

तडिदधिकरणम्।।4.3.3।।

आदित्याच्चन्द्रमसं चन्द्रमसो विद्युतम् इत्यस्या विद्युत उपरिष्टात् स वरुणलोकम् इत्ययं वरुणः संबध्येत अस्ति हि संबन्धो विद्युद्वरुणयोः यदा हि विशाला विद्युतस्तीव्रस्तनितनिर्घोषा जीमूतोदरेषु प्रनृत्यन्ति अथ आपः प्रपतन्ति विद्योतते स्तनयति वर्षिष्यति वा इति च ब्राह्मणम् अपां च अधिपतिर्वरुण इति श्रुतिस्मृतिप्रसिद्धिः वरुणादधि इन्द्रप्रजापती स्थानान्तराभावात् पाठसामर्थ्याच्च आगन्तुकत्वादपि वरुणादीनामन्ते एव निवेशः वैशेषिकस्थानाभावात् विद्युच्च अन्त्या अर्चिरादौ वर्त्मनि।।